||Anjaneya Navaratnamala Stotram ||

॥ अंजनेय नवरत्नमाला स्तोत्रं ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

अंजनेय नवरत्नमाला स्तोत्रं.

माणिक्यं॥
ततोरावण नीतायाः सीतायाः शतृकर्शनः।
इयेष पदमन्वेष्टुं चारणाचरिते पथि॥1||

मुत्यं॥
यस्यत्वेतानि चत्वारि वानरेंद्र यथा तव।
स्मृतिर्मतिर्धृतिदाक्ष्यं स कर्मसु सीदति॥2||

प्रवालं॥
अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखम्।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥3||

मरकतं॥
नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रियमानिलेभ्यो
नमोऽस्तु चंद्रार्कमरुद्गणेभ्यः॥4||

पुष्यरागं॥
प्रियन्नसंभवेद्दुःखं अप्रियादधिकं भयम्।
ताभ्यां हि ये वियुज्यंते नमस्तेषां महात्मनाम्॥5||

हीरकं॥
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः।
रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे॥6||

इंद्रनीलं॥
जयत्यति बलो रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाधिपालितः॥7||
दासोऽहं कौसलेंद्रस्य रामस्याक्लिष्टकर्मणः।
हनुमान् शतृसैन्यानां निहंता मारुतात्मजः॥8||

गोमेधकं॥
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः।
यदिवास्त्येकपत्नीत्वं शीतोभव हनूमतः॥9||

वैडूर्यं॥
निवृत्तवनवासं तं त्वया सार्धमरिंदमम्।
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥10||

इति श्री आंजनेय नवरत्नमाला स्तोत्रम्॥

|| Om tat sat ||